________________
प्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयान्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम्, आदीयत इत्यादानं - धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम्, अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य राज्यादौ भयम् अकस्माद्भयं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं मरणाद्भयं मरणभयं प्रतीतमेव, 'असिलोगो'त्ति अश्लाघाभयम् - अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तद्भयान्न प्रव र्तत इति गाथाशकलाक्षरार्थः ॥ मदः- मान [ग्रन्थाग्रं० १६५००] स्तस्य स्थानानि - पर्याया भेदा मदस्थानानि, इह च प्रतिक्रमामीति वर्तते, अष्टभिर्मदस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेष्वायोज्यं, कानि पुनरष्टौ मदस्थानानि ?, अत आह सङ्ग्रहणिकारः
जाई कुलबलरूवे तवईसरिए सुए लाहे ॥ १ ॥
अस्य व्याख्या- कश्चिन्नरेन्द्रादिः प्रब्रजितो जातिमदं करोति, एवं कुलबलरूपतपऐश्वर्यश्रुतला भेष्वपि योज्यमिति ॥ नवभिर्ब्रह्मचर्य गुप्तिभिः शेषं पूर्ववत्, ताश्चेमा ः—
वसेहिकेनिसिजिंदिये कुडुतैरपुर्वकीलियपैणीए । अमायाहारविभूषणाय नव बंभगुत्तीओ ॥ १ ॥
व्याख्या - ब्रह्मचारिणा तद्द्रुत्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं,