________________
MARSHASTRO
प्रतिक्रमामि षड्भिर्जीवनिकायैःप्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-पृथिवीकायेनेत्यादि । प्रतिक्रमामि षड्भिर्लेश्याभिः करणभूताभिर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-कृष्णलेश्ययेत्यादि-'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दःप्रयुज्यते ॥१॥ कृष्णादिद्रव्याणि तु सक-10 लप्रकृतिनिष्यन्दभूतानि, आसां च स्वरूपं जम्बूखादकदृष्टान्तेन ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते-'जह जंबुतरुवरेगो सुपक्कफलभरियनमियसालग्गो। दिह्रो छहिं पुरिसेहिं ते बिती जंबु भक्खेमो ॥१॥ किह पुण? ते बेंतेको आरुहमाणाण जीवसंदेहो। तो छिंदिऊण मूले पाडे, ताहे भक्खेमो ॥२॥ बितिआह एद्दहेणं किं छिपणेणं तरूण अम्हंति । |साहा महल्ल छिंदह तइओ बेंती पसाहाओ॥३॥ गोच्छे चउत्थओ उण पंचमओ बेति गेण्हह फलाई। छट्ठो बेंती पडिया एएच्चिय खाह घेत्तुं जे ॥ ४ ॥ दिहतस्सोवणओ जो बैंति तरूवि छिन्न मूलाओ। सो वट्टइ किण्हाए सालमहल्ला उ नीलाए ॥५॥ हवइ पसाहा काऊ गोच्छा तेऊ फला य पम्हाए । पडियाए सुक्कलेसा अहवा अण्णं उदाहरणं ॥६॥
१ यथा जम्बूतरुवर एकः सुपक्कफलभारनम्रशालाग्रः । दृष्टः षभिः पुरुषैस्ते ब्रुवते जम्बूः भक्षयामः ॥ १॥ कथं पुनः? तेषामेको अवीति आरुहता साजीवसंदेहः । तद् ब्युग्छिच मूलात् पातयामस्ततो भक्षयामः ॥२॥ द्वितीय आह-एतावता तरुणा छिन्नेनास्माकं किम् ? । शाखा महतीं छिन्त तृतीयो प्रवीति ||
प्रशाखाम् ॥ ३॥ गुच्छान् चतुर्थः पुनः पञ्चमो प्रवीति गृहीत फलानि । षष्ठो ब्रवीति पतितानि एतान्येव खादामो गृहीत्वा ॥४॥ दृष्टान्तस्योपनयो-यो। ब्रवीति तरुमपि छिन्त्त मूलात् । स वर्त्तते कृष्णायां शाखां महती तु नीलायाम् ॥५॥ भवति प्रशाखां कापोती गुच्छान् तैजसी फलानि च पद्मायाम् । पतितानि शुक्ललेझ्या अथवाऽन्यदुदाहरणम् ॥६॥