SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ इति सचित्तास्तैः-जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत् 'अच्चित्तेहिं च णायवत्ति अविद्यमानचित्तैश्च-मृतरित्यर्थः, ज्ञातव्या-विज्ञेयेति गाथाक्षरार्थः॥१०॥ इत्थं तावदुद्देशः कृतः, अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयन्नाह अणभोग कारणेण व नपुंसमाईसु होइ सञ्चित्ता । वोसिरणं तु नपुंसे सेसे कालं पढिक्खिजा ॥११॥ व्याख्या-आभोगनमाभोगः-उपयोगविशेषः न आभोगः अनाभोगस्तेन 'कारणेन वा' अशिवादिलक्षणेन 'नपुंसकादिषु' दीक्षितेषु सत्सु भवति 'सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाजड्डादिपरिग्रहः, तत्र चायं विधिः-योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह-वोसिरणं तु नपुंसे'त्ति व्युत्सृजनं-परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, 'सेसे कालं पडिक्खिज'त्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'काल'न्ति यावता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावद्वयुत्सृजेत् इति गाथाक्षरार्थः॥११॥ अथ किं तत्कारणं येनासौ दीक्ष्यत इति ?, तत्रानेकभेदं कारणमुपदर्शयन्नाह असिवे ओमोयरिए रायदुढे भए व आगाढे । गेलन्ने उत्तिमढे नाणे तवदंसणचरित्ते ॥ १२ ॥ व्याख्या-'अशिवं' व्यन्तरकृतं व्यसनम् 'अवमौदर्य' दुर्भिक्षं 'राजद्विष्टं' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः 'आगाढं' भृशम , अयं चागाढशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु 'ग्लानत्वं' ग्लानभावः 'उत्तमार्थः' कालधर्मः,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy