SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४प्रतिक्रमगा. परिष्ठापनिक्यधिक ॥६१९॥ ACACADCASICALOCALOCALOCALCS व्याख्या-पृथिव्यप्कायस्तेजो वायुर्वनस्पतिश्चैव एवमेकेन्द्रियाः पञ्चविधाः, एक त्वगिन्द्रियं येषां ते एकेन्द्रियाः 'पञ्चविधाः' पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति,कथमित्याह- तज्जाय तहा य अतज्जाय' तज्जातपारिस्थापनिकी अतज्जातपारिस्थापनिकी च, अनयोभावार्थमुपरिष्टाद्वक्ष्यतीति गाथार्थः॥३॥ आह-सति ग्रहणसम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्र पृथिव्यादीनां कथं ग्रहणमित्यत आह दुविहं च होइ गहणं आयसमुत्थं च परसमुत्थं च । एक्केकंपि य दुविहं आभोगे तह अणाभोगे ॥ ४॥ | व्याख्या-'द्विविधं तु' द्विप्रकारं च भवति 'ग्रहणं' पृथिव्यादीनां, कथम् ?-'आत्मसमुत्थं च परसमुत्थं च' आत्मसमुत्थं च स्वयमेव गृह्णतः परसमुत्थं परस्माद्गृहृतः, पुनरेकैकमपि द्विविधं भवति, कथमित्याह-'आभोए तह अणाभोए' आभोगनम् आभोगः, उपयोगविशेष इत्यर्थः, तस्मिन्नाभोगे सति, तथाऽनाभोगे, अनुपयोग इत्यर्थः, अयं गाथाक्षरार्थः ॥४॥ अयं पुनर्भावार्थो वर्तते-तत्थ ताव आयसमुत्थं कहं च आभोएण होज, साहू अहिणा खइओ विसं वा खइयं विसप्फोडिया वा उठिया, तत्थ जो अचित्तो पुढविकाओ केणइ आणिओ सो मग्गिजइ, णत्थि आणिल्लओ, ताहे अप्पणावि आणिज्जइ, तत्थवि ण होज अचित्तो ताहे मीसो, अंतो हलखणणकुडुमाईसु आणिजइ, ण होज ताहे अडवीओ पंथे वंमिए वा दवदड्डए वा, ण होज पच्छा सचित्तोवि घेप्पइ, आसुकारी वा कजं होजा जो लद्धो सो आणिजइ, एवं तत्र तावदात्मसमुत्थं कथं चाभोगेन भवेत् ?, साधुरहिना दष्टो विषं वा खादितं विषस्फोटिका वोत्थिता, तत्र योऽचित्तः पृथ्वीकायः केनचिदानीतः स मार्यते, नास्त्यानीतस्तदाऽऽत्मनाऽप्यानीयते, तत्रापि न भवेदचित्तस्तदा मिश्रः, अन्तशो हलखननकुख्यादिभ्य आनीयते, न भवेत्तदाऽटवीतः. पथि वल्मीकात् दवदग्धाद्वा, न भवेत् पश्चात्सचित्तोऽपि गृह्यते, आशुकारि वा कार्य भवेत् यो लब्धः स भानीयते, एवं ॥६१९॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy