________________
पारिहावणियविहिं वोच्छामि धीरपुरिसपण्णत्तं । जं णाऊण सुविहिया पवयणसार उवलहंति ॥१॥ व्याख्या-परितैः सर्वैः प्रकारैः स्थापनं परिस्थापनम्-अपुनर्ग्रहणतया न्यास इत्यर्थः, तेन निवृत्ता पारिस्थापनिकी || तस्या विधिः-प्रकारः पारिस्थापनिकाविधिस्तं 'वक्ष्ये' अभिधास्ये, किं स्वबुद्ध्योत्प्रेक्ष्य ?, नेत्याह-'धीरपुरुषप्रज्ञप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः, तत्रैकान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधरस्तु धी:-बुद्धिस्तया विराजत इति धीरः।आह-यद्ययं पारिस्थापनिकाविधिधीरपुरुषाभ्यां प्ररूपित एव किमर्थं प्रतिपाद्यत इत्युच्यते-धीरपुरु
पाभ्यां प्रपञ्चेन प्रज्ञप्तः स एव संक्षेपरुचिसत्त्वानुग्रहायेह सङ्केपेणोच्यत इत्यदोषः, किंविशिष्टं विधिमत आह-यं 'ज्ञात्वा' है विज्ञाय 'सुविहिताः' शोभनं विहितम्-अनुष्ठानं येषां ते सुविहिताः, साधव इत्यर्थः, किं ?-प्रवचनस्य सारः प्रवचनस
न्दोहस्तम् 'उपलभन्ति' जानन्तीत्यर्थः॥ सा पुनः पारिस्थापनिक्योघतः एकेन्द्रियनोएकेन्द्रियपरिस्थाप्यवस्तुभेदेन द्विधा भवति, आह
एगेंदियनोएगेंदियपारिद्वावणिया समासओ दुविहा । एएसि तु पयाणं पत्तेय परूवणं वोच्छं ॥२॥ | व्याख्या-एकेन्द्रियाः-पृथिव्यादयः, नोएकेन्द्रियाः-त्रसादयस्तेषां पारिस्थापनिकी-एकेन्द्रियनोएकेन्द्रियपारिस्थाप-18 निकी, 'समासत' संक्षेपेण 'द्विधा' द्विप्रकारा प्रज्ञप्तोक्तेनैव प्रकारेण, 'एएसिं तु पयाणं पत्तेय परूवर्ण वोच्छं' अनयोः पदयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः 'प्रत्येक' पृथक पृथक् 'प्ररूपणां' स्वरूपकथनां वक्ष्ये-अभिधास्य इति गाथार्थः ॥२॥ तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तत्स्वरूपमेवादौ प्रतिपादयन्नाह
पुढवी आउकाए तेज वाऊ वणस्सई चेव । एगेंदिय पंचविहा तजाय तहा य अतजाय ॥ ३ ॥
१०४