SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ FACOCONTACACARAS भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद् ॥१॥” इत्यादि, 'विलीयन्ते' विनाशमुपयान्तीति गाथार्थः ॥ १०२॥ किं चेदमन्यद् , इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसायसमुत्थेहि य वाहिजइ माणसेहिं दुक्खेहिं । ईसाविसायसोगाइएहिं झाणोवगयचित्तो ॥१३॥ ___ व्याख्या-'न कषायसमुत्थैश्च' न क्रोधाद्युद्भवैश्च 'बाध्यते' पीड्यते मानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविषादशोकादिभिः' तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या विषादः-वैक्लव्यं शोकःदैन्यम् , आदिशब्दाद् हर्षादिपरिग्रहः, ध्यानोपगतचित्त इति प्रकटार्थमय गाथार्थः ॥ १०३ ॥ सीयायवाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिचलचित्तो न वहिजइ निचरापेही ॥ १० ॥ ___ व्याख्या-इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शारीरैः 'सुबहुप्रकारैः' अनेक भेदैः 'ध्यानसुनिश्चलचित्त ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुं तत एव, 'निर्जरापेक्षी' कर्मक्षयापेक्षक इति गाथार्थः॥ १०४ ॥ उक्तं फलद्वारम् , अधुनोपसंहरन्नाह ___ इय सञ्चगुणाधाणं दिवादिसुइसाहणं झाणं । सुपसत्थं सद्धेयं नेयं झेयं च निश्चंपि ॥ १०५॥ । व्याख्या-'इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुष्टु प्रशस्तं २, तीर्थकरगणधरादिभिरासेवितत्वात् , यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं ज्ञातव्यं स्वरूपतः 'ध्येयम्' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, 'नित्यमपि' सर्वकालमपि,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy