________________
आवश्यक- आह-एवं तर्हि सर्वक्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात् , नास्ति काचिदसौ क्रिया यया साधूनां ४प्रतिक्रमहारिभ- | ध्यानं न भवतीति गाथार्थः ॥ १०५ ॥ ग्रन्थाग्रं १५६९६ ॥ समाप्तं ध्यानशतकं ॥
णा.क्रियाद्रीया
धिकारः । पडिकमामि पंचहि किरियाहिंकाइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए ॥६११॥
(सूत्रम् ) प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथा-'काइयाए' इत्यादि, चीयत इति: कायः, कायेन निर्वृत्ता कायिकी तया,सा पुनस्त्रिधा-अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी,(च) तत्र मिथ्याप्टेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिकी-उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि
षष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य,सा पुनर्द्विधा-इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रभणिहितकायिकी च, तत्राऽऽद्येन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्य-इष्टानिष्टविषयप्राप्तौ मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग
प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीदयाऽप्रमत्तसंयतस्य-उपरतस्य-सावद्ययोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी १, अधिक्रियत आत्मा नरकादिषु येन
तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता-अधिकरणिकी तया, सा पुनर्द्विधा-अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमहापशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खड्गादिनिर्वर्तिनी, अलमन्यैरुदाहरणैः, अनयोरे- ॥६११॥ वान्तःपातित्वात्तेषां, गताऽऽधिकरणिकी २, प्रद्वेषः-मत्स रस्तेन निवृत्ता प्राद्वेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीव-- प्रद्वेषिकी च, आद्या जीवे प्रद्वेष गच्छतः, द्वितीया पुनरजीवे, तथाहि-पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया ३,
ORCHISHOISISSEASHOGAR