________________
LAIGANGACARRORG
- भासवदारा संसारहेयवो जंण धम्मसुक्केसु । संसारकारणाई तओ धुवं धम्मसुक्काई ॥ ९५ ॥ PI व्याख्या-आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मान्न शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद् 'ध्रुव | नियमेन धर्मशुक्ले इति गाथार्थः ॥ ९५॥ संसारप्रतिपक्षतया च मोक्षहेतुानमित्यावेदयन्नाह
संवरविणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणगं तवस्स तो मोक्खहेऊयं ॥ १६ ॥ व्याख्या-संवरनिर्जरे 'मोक्षस्य पन्थाः' अपवर्गस्य मार्गः, तपः पन्थाः' मार्गः 'तयोः' संवरनिर्जरयोः ध्यानं च प्रधा-1 नाङ्गं तपसः आन्तरकारणत्वात् , ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ॥ ९६ ॥ अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह
अंबरलोहमहीणं कमसो जह मलकलंकपंकाणं । सोज्झावणयणसोसे साहेति जलाणलाइचा ॥ ९७ ॥ व्याख्या-'अम्बरलोहमहीनां' वस्त्रलोहार्द्रक्षितीनां क्रमशः' क्रमेण यथा मलकलङ्कपङ्कानां यथासङ्ख्यं शोध्या(ध्य)पनयनशोषान् यथासङ्ख्यमेव 'साधयन्ति' निर्वर्तयन्ति जलानलादित्या इति गाथार्थः ॥९७ ॥
तह सोज्झाइसमत्था जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपकाणं ॥ १८ ॥ व्याख्या-तथा शोध्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कर्मैव मलकलङ्कपङ्कास्तेषामिति गाथार्थः॥९८॥ किं च
तापो सोसो भेभो जोगाणं झाणओ जहा निययं । तह तावसोसभेया कम्मस्सवि झाइणो नियमा ॥ ९९ ॥