SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्वीया ॥६०९॥ अत्यन्तगहनेषु 'न संमुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायासु अनेकरूपास्वित्य सम्मोहलिङ्गमिति गाथाक्षरार्थः ॥ ९१ ॥ देहविवित्तं पेच्छ अप्पाणं तह य सङ्घसंजोगे । देहोव हि बोसगं निस्संगो सङ्ग्रहा कुणइ ॥ ९२ ॥ व्याख्या — देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गं, देहोपधिव्युत्सर्गे निःसङ्गः सर्वथा करोति व्युत्सर्गलिङ्गमिति गाथार्थः ॥ ९२ ॥ गतं लिङ्गद्वारं, साम्प्रतं फलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलम - भिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्ध तराणामाद्यशुक्लद्वय फलत्वाद्, अत आह— होति सुहासव संवरविणिजरामरसुहाई दिउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ ९३ ॥ व्याख्या - भवन्ति 'शुभाश्रवसंवरविनिर्जरामरसुखानि शुभाश्रवः - पुण्याश्रवः संवरः - अशुभकर्मागम निरोधः विनिर्जराकर्मक्षयः अमरसुखानि - देव सुखानि, एतानि च दीर्घस्थितिविशुद्ध युपपाताभ्यां 'विपुलानि' विस्तीर्णानि, 'ध्यानवरस्य' ध्यानप्रधानस्य फलानि 'शुभानुबन्धीनि' सुकुलप्रत्यायातिपुनर्बोधिलाभभोगप्रव्रज्या केवल शैलेश्यपवर्गानुबन्धीनि 'धर्मस्य' ध्यानस्येति गाथार्थः ॥ ९३ ॥ उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह ते य विसेसेण सुभासवादभोऽणुत्तरामरसुहं च । दोण्हं सुकाण फलं परिनिवाणं परिहाणं ॥ ९४ ॥ व्याख्या - ते च विशेषेण 'शुभाश्रवादयः' अनन्तरोदिताः अनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः 'परिनि र्वाण' मोक्षगमनं 'परिल्लाणं' ति चरमयोर्द्वयोरिति गाथार्थः ॥ ९४ ॥ अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति ४प्रतिक्रम णाध्यान शतकम् ॥ ६०९॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy