SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणन्तं वत्थूर्ण विपरिणामं च ॥ ८८ ॥ व्याख्या - आश्रवद्वाराणि मिथ्यात्वादीनि तदपायान् - दुःखलक्षणान्, तथा संसारानुभावं च, 'धी संसारो' इत्यादि, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानां 'सबठ्ठाणाणि असासयाणी'त्यादि, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति गाथार्थः ॥ ८८ ॥ उक्तमनुप्रेक्षाद्वारम् इदानीं लेश्याद्वाराभिधित्सयाऽऽह— सुक्काए लेसाए दो ततियं परमसुकलेस्साए । थिरयाजिय सेलेसिं लेसाईंयं परमसु ॥ ८९ ॥ व्याख्या - सामान्येन शुक्लायां लेश्यायां 'द्वे' आद्ये उक्तलक्षणे 'तृतीयम्' उक्तलक्षणमेव, परमशुक्ललेश्यायां 'स्थिरताजितशैलेशं' मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं 'परमशुक्ल' चतुर्थमिति गाथार्थः ॥ ८९ ॥ उक्तं लेश्याद्वारम् अधुना लिङ्गद्वारं विवरीषुस्तेषां नामप्रमाण स्वरूपगुणभावनार्थमाह अवहासंमोहविवेगविउसग्गा तस्स होति लिंगाई । लिंगिजइ जेर्हि मुणी सुकझाणोथगयचित्तो ॥ ९० ॥ व्याख्या – अवधासम्मोहविवेकव्युत्सर्गाः 'तस्य' शुक्लध्यानस्य भवन्ति लिङ्गानि, 'लिङ्ग्यते' गम्यते यैर्मुनिः शुक्कुध्यानो| पगतचित्त इति गाथाक्षरार्थः ॥ ९० ॥ अधुना भावार्थमाह चालिजइ बीभेइ य धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु ॥ ९१ ॥ व्याख्या - चाल्यते ध्यानात् न परीषहोपसर्गैर्बिभेति वा 'धीरः' बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्गं, 'सूक्ष्मेषु'
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy