SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४प्रतिक्रमणाध्यान शतकम् ॥६०८॥ SAMACHARACTES पुचप्पभोगओ चिय कम्मविणिजरणहेउतो यावि । सदस्थबहुत्ताओ तह जिणचंदागमाओ य ॥ ८५॥ चित्ताभावेवि सया मुहुमोवरयकिरियाइ भणति । जीवोवोगसम्भावो भवस्थस्स झाणाई ॥८६॥ व्याख्या-काययोगनिरोधिनो योगिनोऽयोगिनोऽपिचित्ताभावेऽपि सूक्ष्मोपरतक्रियो भण्यते,सूक्ष्मग्रहणात् सूक्ष्मक्रिया:निवर्तिनो ग्रहणम् , उपरतग्रहणायुपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः, यथा चक्र भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसो भावात् भवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः,विशेषस्तूच्यते-'कर्मविनिर्जरणहेतुतश्चापि' कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत् , भवति च क्षपक श्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः, चशब्दः प्रस्तुतहेतुत्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति, 'तथा शब्दार्थबहुत्वात्' यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः एवं ध्यानशब्द-4 स्यापि न विरोधः, 'ध्यै चिन्तायां' 'ध्यै कायनिरोधे' 'ध्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाच्चैतदेवमिति, उक्त च-'आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१॥ इत्यादि गाथाद्वयार्थः । ॥ ८५-८६ ॥ उक्तं ध्यातव्यद्वारं, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते सुक्कज्माणसुभावियचित्तो चिंतेह झाणविरमेऽवि । णिययमणुप्पेहाओ चत्तारि चरित्तसंपन्नो ॥ ८७ ॥ ___ व्याख्या-शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्यतदभावादिति गाथार्थः॥ ८७ ॥ ताश्चैताः TACC CCCCACCOSCALCCALCAS ॥६०८॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy