________________
तस्सेव य सेलेसीगयस्स सेलोड णिप्पकंपस्स । वोच्छिन्न कि रियमप्पडिवाइ ज्झाणं परमसुकं ॥ ८२ ॥
व्याख्या -' तस्यैव च ' केवलिनः 'शैलेशीगतस्य' शैलेशी - प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य ! - निरुद्धयोगत्वात् 'शैलेश इव निष्प्रकम्पस्य' मेरोरिव स्थिरस्येत्यर्थः, किं ? - व्यवच्छिन्नक्रियं योगाभावात् तद् 'अप्रतिपाति' अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुक्लं प्रकटार्थमिति गाथार्थः ॥ ८२ ॥ इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह—
पढमं जोगे जोगेसु वा मयं वितियमेव जोगंमि । तइयं च कायजोगे सुकमजोगंमि य चउत्थं ॥ ८३ ॥
व्याख्या- 'प्रथमं' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु 'मतम्' इष्टं तच्चागमिकश्रुतपाठिनः, 'द्वितीयम्' एकत्ववितर्कम विचारं तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात्, तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लम् ' अयोगिनि च ' शैलेशीकेवलिनि 'चतुर्थ' व्युपरतक्रियाऽप्रतिपातीति गाथार्थः ॥ ८३ ॥ आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः 'ध्यै चिन्ताया' मिति पाठात्, तदेतत्कथम् ?, उच्यतेजह छडमत्थस्स मणो झाणं भण्णइ सुनिश्चलो संतो । तह केवलिणो काओ सुनिच्चलो भन्नए झाणं ॥ ८४ ॥
व्याख्या—यथा छद्मस्थस्य मनः, किं ? - ध्यानं भण्यते सुनिश्चलं सत्, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः ॥ ८४ ॥ आह-चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभावेऽपि च सर्वभावप्रसङ्गः, तत्र का वार्तेति ?, उच्यते