________________
आवश्यकहारिभ
४प्रतिक्रम. णाध्यानशतकम्
दीया
६०७॥
HISTORISCHGRRAS
भेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह-'अरागभावस्य' रागपरिणामरहितस्येति गाथार्थः॥७८॥
जं पुण सुणिप्पकपं निवायसरणप्पईचमिव चित्तं । उप्पायठिहभंगाइयाणमेगंमि पजाए ॥ ७९ ॥ व्याख्या-यत्पुनः 'सुनिष्पकम्पं विक्षेपरहितं 'निवातशरणप्रदीप इव' निर्गतवातगृहैकदेशस्थदीप इव 'चित्तम्' अन्त:करणं, व?-उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये ॥७९॥ ततः किमत आह
अवियारमत्थर्वजणजोगंतरओ तयं बितियसुक्कं । पुवगयसुयालंबणमेगत्तवितकमवियारं ॥ ८॥ व्यख्या-अविचारम्-असङ्कम, कुतः१-अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्तं भवति, किमभिधानमित्यत आह-'एकत्ववितर्कमविचारम्' एकत्वेन-अभेदेन वितर्कः-व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ ८॥
निबाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स ॥ ॥ व्याख्या-'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये 'केवलिनः' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ?-'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीयं, ध्यानमिति गम्यते, 'तनुकायक्रियस्येति | तन्वी उच्छासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः॥ ८१॥
॥६०७॥