SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया २ चतुर्विशतिस्तवाध्य. करनिक्षेपः ॥४९९॥ SHEORORSCOPECX व्याख्या-आह-उक्तप्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथ-1 मस्थाने कार्य इति ज्ञापनार्थ, तत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावतः, तत्करणशीलः कलहकर इति, एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाङ्मनोभिस्ताडनादिगहनं डमर, समाधान-समाधिः स्वास्थ्य न समाधिरसमाधिः-अस्वास्थ्यनिबन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानिवृतिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया न तु व्यक्त्यपेक्षयेति, अत एवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इति गाथार्थः ॥ १०७४ ॥ साम्प्रतं प्रशस्तभावकरमभिधातुकाम आहअत्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो अ। अभयकर निव्वुइकरो कुलगर तित्थंकरंतकरो॥१०७५ । व्याख्या-तत्रौघत एव विद्यादिरर्थः, उक्त च-'विद्याऽपूर्व धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्तविचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं-परिणामपथ्यं कुशलानुबन्धि यत्किञ्चित्, कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशः-पराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वा संसारस्येति गाथार्थः ॥ १०७५ ॥ उक्तो भावकरः, अधुना जिनादिप्रतिपादनायाऽऽह अनादिभवाभ्यासादासेवनमप्रशस्तस्यैवादी भवति, प्रशस्तस्य तु पश्चादेवेति २ यतोऽसाविति ३ ग्यक्तिसमुदायरूपत्वात् जातेस्तस्याः प्रागुदेशात् अत्र व्यक्त्यपेक्षयेति ॥४९९॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy