SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ SADGAADMCAMSARSASARAM जियकोहमाणमाया जियलोहा तेण ते जिणा हुंति । अरिणो हंता रयं हंता अरिहंता तेण वुचंति ॥१०७६॥ | व्याख्या-जितक्रोधमानमाया जितलोभा येन कारणेन तेन ते भगवन्तः, किं ?-जिना भवन्ति, 'अरिणो हंता रयं हते'त्यादिगाथादलं यथा नमस्कारनियुक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ १०७६॥ कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहकित्तेमि कित्तणिजे सदेवमणुआसुरस्स लोगस्स । दसणनाणचरित्ते तवविणओ दंसिओ जेहिं ॥१०७७॥ ___ व्याख्या-कीर्तयिष्यामि नामभिर्गुणैश्च, किम्भूतान् ?-कीर्तनीयान् , स्तवाहा॑नित्यर्थः, कस्येत्यत्राह-सदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-'दर्शनज्ञानचारित्राणि' मोक्षहेतूनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः ॥ १०७७ ॥ चउवीसंति य संखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ॥१०७८ ॥ ___ व्याख्या-चतुर्विंशतिरिति सङ्ख्या, ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः ऐरवतमहाविदेहेषु ये तद्| होऽपि वेदितव्य इति गाथार्थः ॥ १०७८ ॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली हुँति ॥ १०७९॥ __ व्याख्या-कृत्स्नं' सम्पूर्ण 'केवलकल्प' केवलोपमम् , इह कल्पशब्द औपम्ये गृह्यते, उक्तं च-“सामर्थ्य वर्णनायां | च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥१॥" 'लोक' पञ्चास्तिकायात्मकं जानन्ति विशे
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy