________________
व्याख्या- 'एवमेव ' एभिरेव विषादिदृष्टान्तैः, किं ? - वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथार्थः ॥ ७६ ॥ इह च भावार्थो नमस्कार - निर्युक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थं स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग इति, स चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्त भाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन् काले करोति, परिमाणतोऽपि - 'पज्जत्तमित्तसन्निस्स जत्तियाई जहण्णजोगिस्स । होंति मणोद - वाई तावारो य जम्मत्तो ॥ १ ॥ तदसङ्खगुणविहीणे समए २ निरंभमाणो सो । मणसो सबनिरोहं कुणइ असंखेज्जसम| एहिं ॥ २ ॥ पज्जत्तमित्तबिंदियजहण्णवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए २ निरंभंतो ॥ ३ ॥ सववइजोग| रोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ॥ ४ ॥ जो किर जहण्णजोओ तदसंखेजगुणहीणमेकेके । समए निरंभमाणो देहतिभागं च मुचतो ॥ ५ ॥ रुंभइ स कायजोगं संखाईएहिं चेव समएहिं । तो
१ पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्वयापारश्च यन्मात्रः ॥ १ ॥ तदसंख्यगुणविहीनान् समये २ निरुन्धन् सः । | मनसः सर्वनिरोधं करोत्यसंख्येयसमयैः ॥२॥ पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवचोयोगिनः पर्याया ये तु । तदसंख्यगुणविहीनान् समये २ निरुन्धन् ॥ ३ ॥ सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥ ४ ॥ यः किल जघन्यो योगस्तदसंख्ये य गुणहीनमेकैकस्मिन् । समये २ निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ ५ ॥ रुणद्धि स काययोगं संख्यातीतैरेव समयैः । ततः