SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ R%AC% आवश्यक-G व्याख्या-'उत्सारितेन्धनभर' अपनीतदाह्यसङ्घातः यथा 'परिहीयते' हानि प्रतिपद्यते 'क्रमशः' क्रमेण 'हुताशः' ४प्रतिक्रमहारिभ- वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमात्रं भवति, तथा 'निर्वाति' विध्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति णाध्यानद्रीया गाथार्थः ॥ ७३ ॥ अस्यैव दृष्टान्तोपनयमाह शतकम् तह विसइंधणहीणो मणोहुयासो कमेण तणुयमि । विसइंधणे निरंभइ निवाइ तओऽवणीओ य ॥ ७ ॥ ॥६०५॥ व्याख्या-तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, "क्रमेण' परिपाट्या 'तनुके' कृशे, क ?-'विषयेन्धने' अणावित्यर्थः, किं ?-'निरुध्यते' निश्चयेन ध्रियते, तथा निर्वाति ततः तस्मादणोरपनीतश्चेति गाथार्थः॥७४ ॥ पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाह तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ॥ ७५ ॥ व्याख्या-'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं-लोहभाजनं च तप्तायसभा-II जनं तदुदरस्थं, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः-तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाजलं २ 'जानीहि अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः ॥ ७५ ॥ 'अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुणद्धी-13 ॥६०५॥ दात्युक्तम् , अधुना शेषयोगनियोगविधिमभिधातुकाम आह एवं चिय वयजोगं निरुभइ कमेण कायजोगपि । तो सेलेसोच थिरो सेलेसी केवली होइ ॥ ७ ॥ Saamananeमा %
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy