SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ मनालयमा परमाणौ, निधायेति शेषः, कः ?-'छद्मस्थः' प्राग्निरूपितशब्दार्थः, 'ध्यायति' चिन्तयति 'सुनिष्पकम्पः' अतीव निश्चल इत्यर्थः, 'ध्यान' शुक्ल, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय 'अमना' अविद्यमानान्तःकरणः 'जिनो भवति' अर्हन् भवति, चरमयोद्धयोातेति वाक्यशेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः ॥७॥ आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणौ धारयति ?, केवली वा ततोऽप्यपनयतीति ?, अत्रोच्यते जह सधसरीरगय मंतेण विसं निरंभए डंके । तत्तो पुणोऽवणिजइ पहाणयरमंतजोगेणं ॥१॥ व्याख्या-'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगतं' सर्वदेहव्यापकं 'मन्त्रेण' विशिष्टवर्णानुपूर्वीलक्षणेन 'विर्ष' मारणात्मक द्रव्यं 'निरुध्यते' निश्चयेन ध्रियते, क-'डङ्के भक्षणदेशे, 'ततः' डङ्कात्पुनरपनीयते, केनेत्यत आह-'प्रधानतरमन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः परिगृह्यते इति गाथार्थः॥ ७१॥ एष दृष्टान्तः, अयमर्थोपनय: तह तिहुयणतणुविसयं मणोविसं जोगमंतबलजुत्तो । परमाणुं मि निरंभइ अवणेइ तओबि जिणवेजो ॥ २ ॥ SI व्याख्या-तथा 'त्रिभुवनतनुविषयं' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोगबल युक्तः-जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति 'ततोऽपि' तस्मादपि परमाणोः, कः ?-'जिनवैद्यः' जिनभिषग्वर इति गाथार्थः॥७२॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आह उस्सारियेंधणभरो जह परिहाइ कमसो हुयामुञ्च । थोविंधणावसेसो निवाइ तओऽवणीओ य ॥३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy