________________
आवश्यकहारिभद्रीया
प्रतिक्रमणाध्यानशतकम्
॥६०४॥
फलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम् , इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थःप्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावनादेशकालासनविशेषेषु (धर्म)ध्यानादस्याविशेष एवेत्यत एतान्यनाहत्याऽऽलम्बनान्यभिधित्सुराह
मह खंतिमवजवमुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं सुकमाणं समारुहइ ॥ १९॥ व्याख्या-'अथे' त्यासनविशेषानन्तर्ये, 'क्षान्तिमाईवार्जवमुक्तयः' क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च क्रोधंनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम् , एता एव क्षान्तिमाईवार्जवमुक्कयो विशेष्यन्ते-'जिनमतप्रधाना' इति जिनमते-तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः २, प्राधान्यं चासामकषायं चारित्रं चारित्राच्च नियमतो मुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि-प्राग्निरूपितशब्दार्थानि, पैरालम्बनैः करणभूतैः शुक्लध्यान समारोहति, तथा च क्षान्त्याद्यालम्बना एव शुक्लध्यानं समासादयन्ति, नान्य इति गाथार्थः॥६९॥ व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारं, साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽद्ययोधर्मध्यान एवोक्तः, इह पुनरयं विशेष:
तिहुयणविसयं कमसो संखिवित मणो अर्गुमि छउमत्थो । झायइ सुनिष्पकंपो झाणं अमणो जिणो होइ ॥ ७० ॥ व्याख्या-त्रिभुवनम्-अधस्तिर्यगूर्ध्वलोकभेदं तद्विषयः-गोचरः आलम्बनं यस्य मनस इति इति योगः, तत्रिभुवनविषयं 'क्रमशः' क्रमेण परिपाट्या-प्रतिवस्तुपरित्यागलक्षणया 'संक्षिप्य' सङ्कोच्य, कि ?-'मनः' अन्तःकरणं, क-'अणौ
* क्रोधे न वर्तनं प्र०.
॥६
॥