________________
OSASUSRAASROCHESSIS
भवति-पीतलेश्यायाः पद्मलेश्या विशुद्धा तस्या अपि शुक्ललेश्येति क्रमः, कस्यैता भवन्त्यत आह-'धर्मध्यानोपगतस्य' धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह-तीव्रमन्दादिभेदा' इति तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषा तीव्रमन्दभेदा इति गाथार्थः॥६६॥ उक्तं लेश्याद्वारम् , इदानी लिङ्गद्वारं विवृण्वन्नाह
___ भागमश्वएसाणाणिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंग ॥६७ ॥ व्याख्या-इहागमोपदेशाज्ञानिसर्गतो यद् 'जिनप्रणीतानां तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां 'श्रद्धानम्' अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य तल्लिङ्गं, तत्त्वश्रद्धानेन लिङ्गयते धर्मध्यायीति, इह चागमः-सूत्रमेव तदनुसारेण कथनम्-उपदेशः आज्ञा त्वर्थः निसर्गः-स्वभाव इति गाथार्थः॥ ६७॥ किं च
जिणसाहूगुणकित्तणपसंसणाविणयदाणसंपण्णो । सुअसीलसंजमरओ धम्मज्झाणी मुणेयच्चो ॥ ६ ॥ __ व्याख्या-'जिनसाधुगुणोत्कीर्तनप्रशंसाविनयदानसम्पन्नः' इह जिनसाधवः-प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तन-सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहोलाध्यतया भक्तिपूर्विका स्तुतिः, विनयः-अभ्युत्थानादि, दानम्-अशनादिप्रदानम् , एतत्सम्पन्नः-एतत्समन्वितः, तथा श्रुतशीलसंयमरतः, तत्र श्रुतं-सामायिकादिबिन्दुसारान्तं शीलं-व्रतादिसमाधानलक्षणं संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं-'पञ्चाश्रवा' दित्यादि, एतेषु भावतो रतः,181 किं ?-धर्मध्यानीति ज्ञातव्य इति गाथार्थः ॥ ६८ ॥ गतं लिङ्गद्वारम् , अधुना फलद्वारावसरः, तच्च लाघवार्थ शुक्लध्यान
CAR