________________
964AALASSAR
व्याख्या-प्रमादा-मद्यादयः, यथोक्तम्-'मजं विसयकसाया निद्दा विकहा य पंचमी भणिया' सर्वप्रमादै रहिताः सर्वप्रमादरहिताः, अप्रमादवन्त इत्यर्थः, 'मुनयः' साधवः 'क्षीणोपशान्तमोहाश्च' इति क्षीणमोहा:-क्षपकनिम्रन्थाः उपशान्तमोहा-उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, 'ध्यातारः' चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ताः, विपश्चित इत्यर्थः, निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ॥६३॥ उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाघवार्थ चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराह
एएच्चिय पुष्वाणं पुत्रधरा सुप्पसत्थसंघयणा । दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ॥ ६ ॥ व्याख्या 'एत एव' येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः 'पूर्वयोः' इत्याद्ययोईयोः शुक्लध्यानभेदयोः पृथक्त्ववितकसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातार इति गम्यते, अयं पुनर्विशेषः- पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं, न निर्ग्रन्थानां, माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणमिति, तथा 'द्वयोः' शुक्लयोः परयोः-उत्तरकालभा-2 विनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनोध्यातार इति योगः,
REAUCRAC%
मद्य विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता.