________________
आवश्यक
हारिभद्रीया
॥६०२॥
'निर्वाणपुरं' सिद्धिपत्तनं परिनिर्वाणपुरं वेति पाठान्तरं 'शीघ्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्राप्नुवन्ति' आसादयन्ति तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ॥ ६० ॥
तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाई साभावियं निश्वमं जह सोक्खं अक्खयमुर्वेति ॥ ६१ ॥
व्याख्या – 'तत्र च ' परिनिर्वाणपुरे 'त्रिरत्नविनियोगात्मक' मिति त्रीणि रत्नानि - ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविकं' न कृत्रिमं 'निरुपमम्' उपमातीत मिति, उक्तं च- 'नवि अत्थि माणुसाणं तं सोक्ख' मित्यादि 'यथा' येन प्रकारेण 'सौख्यं' प्रतीतम् 'अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्राप्नुवन्ति, क्रिया प्राग्वदिति गाथार्थः ॥ ६१ ॥
किं बहुणा ? सवं चिय जीवाइपयत्थवित्थरोवेयं । सवनयसमूहमयं झापुजा समयसम्भावं ॥ ६२ ॥
व्याख्या - किं बहुना भाषितेन ?, 'सर्वमेव ' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवर निर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भावमिति योगः, किंविशिष्टं ? - 'सर्वनयसमूहात्मकं' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत्' विचिन्तयेदिति भावना, 'समयसद्भाव' सिद्धान्तार्थमिति हृदयम्, अयं गाथार्थः ॥ ६२ ॥ गतं ध्यातव्यद्वारं, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह -
सङ्घप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निहिता ॥ ६३ ॥
१ नैवास्ति मनुष्याणां तत्सौख्यं.
४ प्रतिक्रमणाध्यान शतकम्
॥ ६०२॥