SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ SCARSAKALA "सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणेज्जा ॥१॥" आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः, उक्तं च-"हेहोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेजा ॥१॥" ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा 'व्योमादिप्रतिष्ठानम्' इत्यत्र प्रतिष्ठितिः प्रतिष्ठानं, भावे ल्युट्, व्योम-आकाशम् , आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिछानमस्येति व्योमादिप्रतिष्ठान, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः २, स्थितिः व्यवस्था मर्यादा इत्यनान्तरं, तद्विधानं, किम्भूतं?-'नियतं नित्यं शाश्वतं, क्रिया पूर्ववदिति गाथार्थः॥५४॥किं च सवमोगलक्षणमणाइनिहणमस्थतर सरीराओ। जीवमरूविं कारि भोयं च सयस्स कम्मरस ॥ ५५॥ ___ व्याख्या-उपयुज्यतेऽनेनेत्युपयोगः-साकारानाकारादिः, उक्तं च-'स द्विविधोऽष्ट चतुर्भेदः' (तत्वार्थे अ० २ सू०९) स एव लक्षणं यस्य स उपयोगलक्षणस्तं, जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा 'अर्थान्तरं' पृथग्भूतं, कुतः?-शरीरात्, जातावेकवचनं, शरीरेभ्यः-औदारिकादिभ्य इति, किमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह-'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'कार' निर्वर्तकं, कर्मण इति गम्यते, तथा 'भोक्तारम्' उपभोक्तारं, कस्य ?-स्वकर्मणः-आत्मीयस्य कर्मणः, ज्ञानावरणीयादेरिति गाथार्थः ॥ ५५ ॥ १ सप्तैव च कोव्यो भवन्ति द्वासप्ततिः शतसहस्राणि । एष भवनसमासो भवनपतीनां (इति) विजानीयात् ॥१॥ अधस्तादुपरि योजनशतरहिते रत्नाया योजनसहने । प्रथमे व्यन्तराणां भौमानि नगराण्यसंस्येयानि ॥१॥ CALCCACARE SARARENCY
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy