SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६००॥ रणेष्वपुनरुक्तम् ॥ १ ॥” तथा हि 'नामादिभेदविहितं' भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तं च- 'नामं ठेवणा दवि खित्ते काले तहेव भावे य । पज्जवलोगो य तहा अट्ठविहो लोगंमि (ग) निक्खेवो ॥१॥ भावार्थश्चतुर्विंशतिस्तव विवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह - 'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादिं' इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्ध्वलोकपरिग्रह इति गाथार्थः ॥ ५३ ॥ किं च तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह - खिद्दवलयदीवसागरनरयविमाणभवणाइसंठाणं । वोमाइपद्वाणं निययं लोगद्विद्दविहाणं ॥ ५४ ॥ व्याख्या- 'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थानं' तत्र क्षितयः खलु घर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि - घनोदधिघनवाततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्ये कविंशतिः, द्वीपाः- जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरपर्यन्ता असङ्ख्येया एव, निरयाःसीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम्- 'तीसां य पन्नवीसा पनरस दसेव सयसहस्साई । तिन्नेगं पंचूणं पंच य नरगा जहाकमसो ॥ १ ॥' विमानानि - ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात् भवनानि - भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि असंख्येयानि उक्तं च १ नामस्थापनयोः द्रव्ये क्षेत्रे च काले तथैव भावे च । पर्यवलोकः तथाऽष्टविधो लोके निक्षेपः ॥ १ ॥ २ त्रिंशत् पञ्चविंशतिश्च पञ्चदश दशैव शतसहखाणि । श्रीणि एकं पञ्चानं पञ्च च नरका यथाक्रमम् ॥ १ ॥ ४ प्रतिक्रम णाध्यानशतकं ॥ ६००॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy