SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ RANGACASSAGARMAGAR ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तं च-'सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ चन विशेषः। सत्योश्चित्यपचित्योरा-12 कृतिजातिव्यवस्थानात् ॥१॥' आदिशब्दादगुरुलध्वादिपर्यायपरिग्रहः, चशब्दः समुच्चयार्थ इति गाथार्थः॥५२॥किंच पंचस्थिकायमइयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाई ॥५३॥ __ व्याख्या-'पञ्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यात'मिति, क्रिया पूर्ववत्, तत्रास्तयः-प्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याधुपग्रहकरा ज्ञेया इति, उक्तं च-"जीवानां पुद्गलानां च, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥१॥ जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ॥२॥ जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो| यद्वदाकाशमवकाशदम् ॥ ३॥ ज्ञानात्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ॥४॥ स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः॥५॥" तन्मयं-तदात्मकं, लोक्यत इति लोकस्तं, कालतः किम्भूतमित्यत आह–'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह-'जिनाख्यातं' तीर्थकरप्रणीतम् , आह-जिनदेशितानि'त्यस्माजिनप्रणीताधिकारोऽनुवर्तत एव, ततश्च जिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात् , आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोक्तम्-"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्म
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy