SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया णाध्यानशतकं ॥५९९॥ SAUSAIS RISUSSRUSSURES व्याख्या-जिना:-प्राग्निरूपितशब्दार्थास्तीर्थकरास्तैर्देशितानि-कथितानि जिनदेशितानि, कान्यत आह-लक्षणसंस्थानासनविधानमानानि, किं ?-विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ट्यां गाथायामिति, तत्र लक्षणादीनि विचिन्तयेत् , अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थान मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानां, यथोक्तम्-'परिमंडले य वट्टे तसे चउरंस आयते चेव' जीवशरीराणां च समचतुरस्रादि, यथोक्तम्-'समैचउरंसे नग्गोहमंडले साइ वामणे खुजे । हुंडेवि य संठाणे जीवाणं छ मुणेयवा ॥१॥ तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति, उक्तं च-हेढा मज्झे उवरि छवीझल्लरिमुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागिई नेओ ॥१॥' तथाऽऽसनानि-आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा, तथा विधानानि धर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा-'धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मथिकायस्स पएसे' इत्यादि, तथा मानानि-प्रमाणानि धर्मास्तिकायादीनामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च 'द्रव्याणां' धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः 'उत्पादव्ययध्रौव्ययुक्तं सदि'ति (तत्त्वार्थे अ०५सू०२९)वचनाद्, युक्तिः पुनरत्र-'घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं,जनो याति सहेतुकम् ॥१॥ पयोव्रतो न दद्ध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥२॥" परिमण्डलं वृत्तं ध्यत्रं चतुरस्त्रमायतमेव. २ समचतुरस्र न्यग्रोधमण्डलं सादि वामनं कुब्ज । हुण्डमपि च संस्थानानि जीवानां षट् ज्ञातव्यानि ॥१॥ |३ अधस्तान्मध्ये उपरि वेन्नासनझालरीमृदङ्गसंस्थानः । लोको वैशाखाकारो वैशाखक्षेत्राकृतिज्ञेयः॥१॥४धर्मास्तिकायो धर्मास्तिकायस्य देशः धर्मास्तिकायस्य प्रदेशः। ॥५९९॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy