SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४प्रतिक्रमणाध्यानशतकम् ॥६०॥ NALESEARCHANA तस्स य सकम्मजणियं जम्माइजलं कसायपायाळं । वसणसयसावयमणं मोहावत्तं महाभीमं ॥५६॥ व्याख्या-तस्य च' जीवस्य 'स्वकर्मजनितम्' आत्मीयकर्मनिवर्तितं, कं?-संसारसागरमिति वक्ष्यति तं, किम्भूतमित्यत आह-'जन्मादिजलं' जन्म-प्रतीतम् , आदिशब्दाजरामरणपरिग्रहः, एतान्येवातिबहुत्वाजलमिव जलं यस्मिन् स तथाविधस्तं, तथा 'कषायपातालं' कषायाः-पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालं यस्मिन् स तथाविधस्तं, तथा 'व्यसनशतश्वापदवन्तं' व्यसनानि-दुःखानि छूतादीनि वा तच्छतान्येव पीडाहेतुत्वात् श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं 'मणं'ति देशीशब्दो मत्वर्थीयः, उक्तं च “मतुयथमि मुणिजह आलं इल्लं मणं च मणुयं चे"ति, तथा 'मोहा-द वर्त' मोहा-मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तं, तथा 'महाभीमम्' अतिभयानकमिति गाथार्थः॥५६॥ किं च भण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ॥ ५७॥ व्याख्या-'अज्ञानंज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतः-वायुस्तेनेरितः-प्रेरितः, कः -संयोगवियोगवीचिसन्तानो यस्मिन् स तथाविधस्तं, तत्र संयोगः-केनचित् सह सम्बन्धः वियोगः-तेनैव विप्रयोगः एतावेव सन्ततप्रवृत्तत्वात् वीचयः-ऊर्मयस्तत्प्रवाहः-सन्तान इति भावना, संसरणं संसारः(स) सागर इव संसारसागरस्तं, किम्भूतम् ? 'अनोरपारम्' अनाद्यपर्यवसितम् 'अशुभम्' अशोभनं विचिन्तयेत् , तस्य गुणरहितस्य जीवस्येति गाथार्थः॥ ५७ ॥ SAINA ॥६०१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy