________________
प्रतिक्रमणाध्यान
.द्रीया
शतकं
आवश्यक
द षष्ठकारणसमुच्चयार्थः, 'सति' विद्यमाने, किं?-'यदू' वस्तुजातं 'न सुष्ठ बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथापि हारिभ- तच्चिन्तयेन्मतिमा निति तत्र सर्वज्ञाः-तीर्थकरास्तेषां मतं सर्वज्ञमतं-वचनं, किं ?-वितथम्-अनृतं न वितथम्-अवितथं ।
सत्यमित्यर्थः, 'तथापि तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् 'मतिमान्' बुद्धि-11
मानिति गाथार्थः॥४८॥ किमित्येतदेवमित्यत आह॥५९७॥
अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य णण्णहावादिणो तेणं ॥ ४९ ॥ ___ व्याख्या-अनुपकृते-परैरवर्तिते सति परानुग्रहपरायणा-धर्मोपदेशादिना परानुग्रहोद्युक्ता इति समासः, 'यद्'। यस्मात् कारणात् , के ?-'जिनाः' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते-'जगत्प्रवराः' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह-जिता-निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्ग| लक्षणो रागः अप्रीतिलक्षणो द्वेष: अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेने ति तेन कारणेन ते नान्यथावादिन इति, उक्तं च-"रागाद्वा द्वेषाद्वे" त्यादि गाथार्थः॥ ४९ ॥ उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते
रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं । इहपरलोयावाओ झाइजा वजपरिवजी ॥ ५० ॥ व्याख्या-रागद्वेषकषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत् , यथा रागादिक्रिया ऐहिकामु|ष्मिकविरोधिनी, उक्तं च-"रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः। महान्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ॥१॥
५९७॥