SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ या एवंविशेषणविशिष्टा सा बोद्धमपि न शक्यते मन्दधीभिः, आस्तां तावद्ध्यातुं, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह तस्थ व मइदोब्बलेणं तनिहायरियविरहओ वावि । णेयगहणतणेण य णाणावरणोदएणं च ॥७॥ व्याख्या-तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ?-जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धेः | सम्यगनवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधः-सम्यगविपरीततत्त्वप्रतिपादनकुशलः आच-टू यतेऽसावित्याचार्यः सूत्रार्थावगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्चासावाचार्यश्च २ तद्विरहतः-तदभावतश्च, चशब्दः अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च' तत्र ज्ञायत इति ज्ञेयं-धर्मास्तिकायादि तद्गहनत्वेन-गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्र ज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः, अत्राह-ननु ज्ञानावर-IN णोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनाप्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषामभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः॥४७॥ तथा हेऊदाहरणासंभवे य सइ सुड जं न बुझेजा । सबष्णुमयमवितहं तहावि तं चिंतप मइमं ॥ ४० ॥ व्याख्या-तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतु:-कारको व्यञ्जकच, उदाहरणं-चरितकल्पि-1 तभेदं, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात् , तस्मिंश्च, चशब्दः पञ्चम
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy