SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ हेउसहस्सोवगूढस्स ॥१॥ नरनरयतिरियसुरगणसंसारियसबदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयंफलयं ॥२॥" सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा-'तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥' इत्यादिवन्मृतामिति, तथा 'अजितामिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तं च-'जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं । सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ॥१॥ तथा 'महार्थी मिति महान्-प्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भ-15 त्वाच्च प्रधानां, महत्स्थां वा अत्र महान्तः-सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा चोक्तम्-'सबसुरासुरमाणुसजोइसवंतरसुपूइयं णाणं । जेणेह गणहराणं छुहंति चुण्णे सुरिंदावि ॥१॥' तथा 'महानुभावा मिति तत्र महान्-प्रधानःप्रभूतो वाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च प्रभूतकार्यकरणाद् , उक्तं च-'भू णं चोदसपुषी घडाओ घडसहस्सं करित्तए' इत्यादि, एवमिहलोके, परत्र तु जघन्यतोऽपि वैमानिकोपपातः, उक्तं च-'उववाओलंतगंमि चोदसपुवीस्स होइ उजहण्णो। उक्कोसो सबढे सिद्धिगमो वा अकम्मस्स॥१॥' हेतुसहस्रोपगूढस्य ॥ १॥ नरनारकतिर्यकसुरगणसांसारिकसर्वदुःखरोगाणाम् । जिनवचनमेकमौषधमपवर्गसुखाक्षतफलदम् ॥ २ ॥२ जीवादिवस्तुचिन्तनकौशल्यगुणेनानन्यसदृशेन । शेषवचनैरजितं जिनेन्द्रवचनं महाविषयम् ॥१॥३ सर्वसुरासुरमनुष्यज्योतिष्कव्यन्तरसुपूजितं ज्ञानम् । येनेह गणधराणां (शी) क्षिपन्ति चूर्णानि देवेन्द्रा अपि ॥ प्रभुचतुर्दशपूर्वी घटात् घटसहस्रं कर्तुं. ५ उपपातो लान्तके चतुर्दशपूर्विणां भवति तु जघन्यः । उत्कृष्टः सर्वार्थे सिद्धिगमनं वाऽकर्मणः ॥१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy