________________
CARRORSCARSAECRET RESOR
झाणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ। भवकाले केवलिणो सेसाण जहासमाहीए ॥ ४ ॥ व्याख्या-ध्यान-प्राग्निरूपितशब्दार्थ तस्य प्रतिपत्तिकम इति समासः, प्रतिपत्तिक्रमः-प्रतिपत्तिपरिपाव्यभिधीयते, स च भवति मनोयोगनिग्रहादिः, तत्र प्रथमं मनोयोगनिग्रहः ततो वाग्योगनिग्रहः ततः काययोगनिग्रह इति, किमयं ट्र सामान्येन सर्वथैवेत्थम्भूतः क्रमो?, न, किन्तु भवकाले केवलिनः, अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मु
हूर्तप्रमाण एव शैलेश्यवस्थान्तर्गतः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लध्यान एवायं क्रमः, शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं १-'यथासमाधिने ति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः ॥४४॥ ६ गतं क्रमद्वारम् , इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः, उक्तं च-"आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्य' (तत्त्वाथै अ०९ सू० ३७ ) मित्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह
सुनिउणमणाइणिहणं भूयहियं भूयभावणमहग्धं । अमियमजियं महत्थं महाणुभावं महाविसयं ॥४५॥ व्याख्या-सुष्टु-अतीव निपुणा-कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याद्युपदर्शकत्वातथा मत्यादिप्रतिपादकत्वाच्च, उक्तं च-'सुयनाथमि नेउण्णं, केवले तयणंतरं । अप्पणो सेसगाणं च, जम्हा तं परिभावगं ॥१॥' इत्यादि, इत्थं सुनिपुणां ध्यायेत् , तथा 'अनाद्यनिधनाम्' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याद्यपेक्षयेति, उक्तं च-"द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न कदाचिन्नासी"दित्यादि, तथा 'भूतहिता मिति इह भूत
१ श्रुतज्ञाने नैपुण्यं केवले तदनन्तरम् । आत्मनः शेषकाणां च, यमाचत् परिभावकम् (प्रकाशकम् ) ॥१॥
जाऽऽद्यभेदप्रतिमाह । अमियमजिवामिति योगः, नपुणा ससगाणं च मायनिधन