________________
आवश्यक हारिभद्रीया
॥५९४॥
आलंबणा वायणपुच्छणपरियणाणुचिंताओ । सामाइयाइयाई सद्धम्मावस्सयाई च ॥ ४२ ॥
४ प्रतिक्रमव्याख्या-इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनाप्रश्नपरावर्तनानुचिन्ता' इति तत्र वाचनं वाचना, विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव 6 शतकं सूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचना च प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि चेति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, तत्र सामायिक प्रतीतम् , आदिशब्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारीपरिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति-शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि-नियमतः|8 करणीयानि, चः समुच्चये इति गाथार्थः॥ ४२ ॥ साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह
विसमंमि समारोहइ दवदवालंबणो जहा पुरिसो । सुत्ताइकयालंबो तह झाणवर समारुहइ ॥ ३ ॥ व्याख्या-विषमे निम्ने दुःसञ्चरे 'समारोहति' सम्यगपरिक्लेशेनोवं याति, कः?-दृढं-बलवद्रव्यं रज्ज्वाधालम्बन यस्य स तथाविधः, यथा 'पुरुषः' पुमान् कश्चित् , 'सूत्रादिकृतालम्बनः' वाचनादिकृतालम्बन इत्यर्थः, 'तथा' तेनैव प्रका-18||५९४॥ रेण 'ध्यानवरं' धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः॥४३॥ गतमालम्बनद्वारम्, अधुना क्रमद्वारावसरः, तत्र लाघवार्थ धर्मस्य शुक्लस्य च (तं) प्रतिपादयन्नाह