SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ जचिय देहावस्था जिया ण शाणोवरोहिणी होइ । साइजा तदवत्यो ठिओो निसण्णो निवष्णो वा ॥ ३९ ॥ व्याख्या - इहैव या काचिद् 'देहावस्था' शरीरावस्था निषण्णादिरूपा, किं ? - 'जिता' इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना 'न ध्यानोपरोधिनी भवति' नाधिकृतधर्मध्यामपीडाकरी भवतीत्यर्थः, 'ध्यायेत् तदवस्थ' इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः प्राह - ' स्थितः' कायोत्सर्गेणेपन्नतादिना 'निषण्णः' उपविष्टो वीरासनादिना 'निर्विण्णः ' सन्नि विष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थः ॥ ३९ ॥ आह-किं पुनरयं देशकालासनानामनियम इति ?, अत्रोच्यते, सासु वट्टमाणा मुणओ जं देसकालचेद्वासु । वरकेवलाइलाभं पत्ता बहुसो समिपावा ॥ ४० ॥ व्याख्या- 'सर्वासु ' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा- देहावस्था, किं १ - 'वर्तमानाः' अवस्थिताः, के ?'मुनयः' प्राग्निरूपित शब्दार्थाः 'यद्' यस्मात्कारणात् किं ? - वरः - प्रधानश्चासौ केवलादिलाभश्च २ तं प्राप्ता इति, आदिशब्दान्मनः पर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः १, न, केवलवर्ज 'बहुशः' अनेकशः, किंविशिष्टाः १ - 'शान्तपापाः' तत्र पातयति नरकादिष्विति पापं शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ॥ ४० ॥ तो देसकालचेानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं जह होइ तहा (प) यइयां ॥ ४१ ॥ व्याख्या - यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकालचेष्टानियमो ध्यानस्य 'नास्ति' न विद्यते, क्व ? - 'समये' आगमे, किन्तु 'योगानां' मनःप्रभृतीनां 'समाधानं' पूर्वोक्तं यथा भवति तथा (प्र) 'यतितव्यं' (प्र)यतः कार्य इत्यत्र नियम एवेति गाथार्थः ॥ ४१ ॥ गतमासनद्वारम् अधुनाऽऽलम्बन द्वारावयवार्थप्रतिपादनायाह
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy