SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रतिक्रमणाध्यानशतकं ॥५९२॥ गाथार्थः ॥ ३४ ॥ उक्ता वैराग्यभावना । मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम् , अधुना देशद्वारव्याचि- ख्यासयाऽऽह निच चिय जुवइपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं वियर्ण भणियं विसेसओ झाणकालंमि ॥ ३५ ॥ व्याख्या-नित्यमेव' सर्वकालमेव, न केवलं ध्यानकाल इति, किं-युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थान विजनं भणित'मिति, तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यस्त्रीति नपुंसकं-प्रतीतं कुत्सितं-निन्दितं शीलं-वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च-'जूइयरसोलमेंठा वट्टा उन्भायगादिणो जे य । एए होंति कुसीला वजेयबा पयत्तेणं ॥१॥ युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं-रहितमिति विग्रहः, यतेः-तपस्विनः साधोः, 'एकग्रहणे तज्जातीयग्रहण'मिति साध्व्याश्च योग्यं यतिनपुंसकस्य 8 |च, किं-स्थानम्-अवकाशलक्षणं, तदेव विशेष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम्-उक्तं तीर्थकरैर्गणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात् , विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः ॥ ३५ ॥ इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम् , अधुना परिणतयोगादीनधिकृत्य विशेषमाह थिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामंमि जणाइण्णे सुण्णे रणे व ण विसेसो ॥ ३६॥ १ घूतकाराः कलाला मेष्ठाश्चट्टा उद्रामका इत्यादयो ये च । एते भवन्ति कुशीला वर्जयितव्याः प्रयत्नेग ॥१॥ *43********* ॥५९२॥ ** **
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy