________________
HIROIRRORK
व्याख्या-तत्र स्थिराः-संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता-निर्वर्तिता अभ्यस्ता इतियावत् , के ?-युज्यन्त इति योगाः-ज्ञानादिभावनाव्यापाराः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् , अत्र च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा-'थिरेणामेगे णो कयजोगें'इत्यादि, स्थिरावा-पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषां, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?-तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगाना है वा मुनीनामिति, मन्यन्ते जीवादीन् पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने-अधिकृत एव धर्मध्याने सुष्टु-अतिशयेन निश्चलं-निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम् , एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति, तत्र असति बुद्ध्यादीन् गुणान् गम्यो वा करादीनामिति ग्रामः-सन्निवेशविशेषः, इह 'एकग्रहणे तज्जातीयग्रहणानगरखेटकर्बटादिपरिग्रह इति, जनाकीर्णे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः ॥ ३६॥ यतश्चैवं-12
जो (तो) जत्थ समाहाणं होज मणोवयणकायजोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स ॥ ३७॥ व्याख्या-यत एव तदुक्तं 'ततः' तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधानं' स्वास्थ्यं भवति' जायते, केषामित्यत आह-'मनोवाक्काययोगानां' प्राग्निरूपितस्वरूपाणामिति, आह-मनोयोगसमाधानमस्तु, वाकाययोगसमाधानं तत्र । कोपयुज्यते ?, न हि तन्मयं ध्यानं भवति, अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारक, ध्यानमपि च तदात्मकं भव
KAMANACANCARRIGAM