________________
मित्यर्थः, तथा 'शुभादानमिति शुभं पुण्यं सातसम्यक्त्व हास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं-ग्रहणं, किं ? - ' चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दान्नव कर्मानादानादि च 'अयलेन' अक्लेशेन 'समेति' गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ? - 'चर गतिभक्षणयोः' इत्यस्य 'अर्तिलूधूसूखनिसहिचर इत्रन्' ( पा० ३-२१८४ ) इतीन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं - क्षयोपशमरूपं तस्य भावश्चारित्रम् एत दुक्तं भवति - इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना - अभ्यासश्चारित्र भावनेति गाथार्थः ॥ ३३ ॥ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूपगुणदर्शनार्थमाह
सुविदियजगरसभावो निस्संगो निभओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ ॥ ३४ ॥
व्याख्या - सुष्ठु – अतीव विदितः - ज्ञातो जगतः - चराचरस्य, यथोक्तं- 'जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्' स्वो भावः स्वभावः, -'जन्म मरणाय नियतं बन्धुर्दुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः ॥ १ ॥' इत्यादिलक्षणो येन स तथाविधः कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह- 'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह- 'निर्भयः' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह- 'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति