________________
आवश्यकहारिभ
प्रतिक्रमणाध्यानशतक
द्रीया
542
॥५९१॥
व्याख्या-'शङ्कादिदोषरहितः शङ्कनं-शङ्का, आदिशब्दात् काङ्गादिपरिग्रहः, उक्तं च-'शङ्काकाङ्क्षाविचिकित्साऽन्य- दृष्टिप्रशंसापरपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः (तत्त्वा० अ० १सू० १८) इति, एतेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोषास्तैः रहितः-त्यक्तः, उक्तदोपरहितत्वादेव, किं ?-'प्रश(श्र)मस्थैर्यादिगुणगणोपेतः' तत्र प्रकर्षेण श्रमः प्रश्रमः-खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्पकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च-'सपरसमयकोसलं थिरया जिणसासणे पभावणया । आययणसेव भत्ती दंसणदीवा गुणा पंच ॥१॥' प्रश्रमस्थैर्यादय एव गुणास्तेषां गणः-समूहस्तेनोपेतो-युक्तो यः स तथाविधः, अथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः २, तत्र प्रशमादिगुणगणः-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य इत्थम्भूतः असौ भवति 'असम्मूढमनाः' तत्त्वान्तरेऽभ्रान्तचित्त | इत्यर्थः, 'दर्शनशुद्ध्या' उक्तलक्षणया हेतुभूतया, व?-ध्यान इति गाथार्थः॥ ३२ ॥ उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरूपगुणदर्शनायेदमाह
नवकम्माणायाणं पोराणविणिजरं सुभायाणं । चारित्तभावणाए माणमयत्तेन य समेइ ॥ ३३ ॥ व्याख्या-'नवकर्मणामनादान'मिति नवानि-उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषामनादानम्-अग्रहणं चारित्रभावनया ‘समेति' गच्छतीति योगः, तथा 'पुराणविनिर्जरां' चिरन्तनक्षपणा
स्वपरसमयकौशलं स्थिरता जिनशासने प्रभावना । आयतनसेवा भक्तिः दर्शनदीपका गुणाः पञ्च ॥ १॥
-44REMCANCH
॥५९१॥