________________
व्याख्या-पूर्व-ध्यानात् प्रथमं कृतः-निर्वतितोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यासः ?-'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चाद् 'ध्यानस्य' अधिकृतस्य 'योग्यताम्' अनुरूप-15
ताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियताः-परिच्छिन्नाः पाठान्तरं वा 8 जनिता इति गाथार्थः॥३०॥ साम्प्रतं ज्ञानभावनास्वरूपगुणदर्शनायेदमाह
णाणे णिचन्भासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ ॥ ३१ ॥ ___ व्याख्या-'ज्ञाने' श्रुतज्ञाने, नित्यं-सदा अभ्यासः-आसेवनालक्षणः 'करोति' निवर्तयति, किं ?-मनसः-अन्तःकरणस्य, चेतस इत्यर्थः, धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च' तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुणितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां 'गुणपर्यायवत् द्रव्य'मिति (तत्त्वा० अ०५ सू० ३७) वचनात् पर्यायाणां च तदविनाभाविनां मुणित:-ज्ञातः सारःपरमार्थो येन स तथोच्यते, ज्ञानगुणेन वा-ज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधः, ततश्च पश्चाद् 'ध्यायति' चिन्तयति, किंविशिष्टः सन् ?-सुष्टु-अतिशयेन निश्चला-निष्पकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थः॥ ३१ ॥ उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरूपगुणदर्शनार्थमिदमाह
संकाइदोसरहिओ पसमथेजाइगुणगणोवेओ। होइ असंमूढमणो दसणसुद्धीऍ झाणं मि ॥ ३२ ॥