SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥५९०॥ व्याख्या - इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम् - आपत् परव्यसनं तद् 'अभिनन्दति' अतिक्लिष्टचित्तत्वाद्वहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः, पश्चात्तापरहित इति भावः, तथा किंच- 'हृष्यते' तुष्यति 'कृतपापः' निर्वर्तितपापः सिंहमारकवत् क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ॥ २७ ॥ उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह - झाणस्स भावणाओ देतं कालं तहाऽऽसणविसेसं आलंबणं कर्म झाइयद्वयं जे य झायारो ॥ २८ ॥ ततोऽणुप्पेहाओ लेस्सा लिंग फलं च नाऊणं । धम्मं झाइज मुणी तग्गयजोगो तभो सुक्कं ॥ २९ ॥ व्याख्या—'ध्यानस्य' प्राग्निरूपित शब्दार्थस्य किं ? - 'भावना' ज्ञानाद्याः, ज्ञात्वेति योगः, किं च- 'देशं' तदुचितं, कालं तथा आसनविशेषं तदुचितमिति, 'आलम्बनं' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं' ध्येयमाज्ञादि, तथा ये च 'ध्यातारः' अप्रमादादियुक्ताः, ततः 'अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा 'लेश्याः ' शुद्धा एव, तथा 'लिङ्गं' श्रद्धानादि, तथा 'फल' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा किं ? - 'धर्म्यम्' इति धर्मध्यानं ध्यायेन्मुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वय| समासार्थः ॥ २८-२९ ॥ व्यासार्थं तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाहपुवकभासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाणदंसणचरितवेरग्गजणियाओ ॥ ३० ॥ ४प्रतिक्रमणाध्यान शतकं ॥५९०॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy