SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आत्मनः, किं ?-रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह-संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ॥ २४ ॥ साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोयनीलकाला लेसाओ तिवसंकिलिट्ठाओ । रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाभो ॥ २५ ॥ व्याख्या-पूर्ववद् व्याख्येया, एतावाँस्तु विशेषः-तीव्रसंक्लिष्टाः-अतिसंक्लिष्टा एता इति, आह-कथं पुनः रौद्रध्यायी ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयति लिंगाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स ॥ २६ ॥ व्याख्या-लिङ्गानि' चिह्नानि 'तस्य' रौद्रध्यायिनः, 'उत्सन्नबहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोषः नानाविधदोषः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नम्-अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वक्त्वक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापद्गतोऽपि स्वतः महदापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुबन्ध्यादिषु चतुर्भेदेषु, किं ?-बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः ॥ किंच परवसणं अहिनंदह निरवेक्खो निद्दओ निरणुतावो । हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो॥ २७ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy