________________
आवश्यकहारिभद्रीया
प्रतिक्रमणाध्यानशतकं
॥५८९॥
विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषा:-कषायास्तैराकुलं-व्याप्तं यत् तत् तथोच्यते, चित्तम्-अन्तःकरणं, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥ २२॥ साम्प्रतं विशेषणाभिधानगर्भमुपसंहरन्नाह
इय करणकारणाणुमइविसयमणुचिंतणं चउब्भेयं । अविरयदेसासंजयजणमणसंसेवियमहणं ॥ २३ ॥ व्याख्या-'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषयः-गोचरो यस्य तत्करणकारणानुमतिविषयं, किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अवि|रताः-सम्यग्दृष्टयः, इतरे च देशासंयता:-श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह, अविरतदेशासंयता एव जनाः २ तेषां मनांसि-चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम् , 'अधन्य'मित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः ॥२३॥ अधुनेदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह-
एवं चउच्विहं रागदोसमोहाउलस्स जीवस्स । रोइज्माणं संसारवद्धणं नरयगइमूलं ॥ २४ ॥ व्याख्या-'एतद्' अनन्तरोक्तं चतुर्विध चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य ?-'जीवस्य'
॥५८९॥