________________
CALAMGARH
रौद्रध्यानमिति प्रकरणाद्गम्यते, किंविशिष्टस्य सत इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनोवणिजादेः, तथा 'अतिसन्धानपरस्य' परवञ्चनाप्रवृत्तस्य,अनेनाशेषेष्वपि प्रवृत्तिमप्या(स्या)ह, तथा प्रच्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीर्थिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यात्मानं यो| गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः॥२०॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति
तह तिच्चकोहलोहाउलस्स भूओवधायणमणजं । परदज्वहरणचित्तं परलोयावायनिरवेक्खं ॥ २१॥ ___ व्याख्या-तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीनौ-उत्कटौ तौ क्रोधलोभौ च २ ताभ्यामाकुल:अभिभूतस्तस्य, जन्तोरिति गम्यते, किं ?-'भूतोपहननमनार्य'मिति हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं भूतानामुपहननं भूतोपहननम् , आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽर्यमनार्य, किं तदेवंविधमित्यत आह-परद्र| व्यहरणचित्तं, रौद्रध्यानमिति गम्यते, परेषां द्रव्यं २ सचित्तादि तद्विषयं हरणचित्तं २ परद्रव्यहरणचित्तं, तदेव विशेष्यतेकिम्भूतं तदित्यत आह-'परलोकापायनिरपेक्ष'मिति, तत्र परलोकापायाः-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ॥ २१ ॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाह
सद्दाइविसयसाहणधणसारक्खणपरायणमणिहुँ । सञ्चाभिसंकणपरोवघायकलुसाउ चित्तं ॥ २२ ॥ व्याख्या-शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषांसाधनं-कारण शब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दा. दिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम्-उद्युक्तमिति विग्रहः,तथाऽनिष्ट-सतामनभिलषणीयमित्यर्थः, इदमेव