________________
आवश्यकहारिभद्रीया
करणं प्रति दृढाया रोषः स एवापायहेतुत्वा नणं-निर्गतदयं मना विपाकः-परिणामो
॥५८८॥
स्तम्-अभिलाट मणिधानाध्या
वेधस्तु नासिकादिवेधन कीलिकादिभिः बन्धन-संयमनं रज्जुनिगडादिभिः दहनं-प्रतीतमुल्मुकादिभिः अङ्कनं-लाञ्छनं प्रतिक्रमश्वशृगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम्-अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?
शतकं 'अतिक्रोधग्रहप्रस्तम्' अतीवोत्कटो यः क्रोधः-रोषः स एवापायहेतुत्वाग्रह इव ग्रहस्तेन ग्रस्तम्-अभिभूतं, क्रोधग्रहणाच्च मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-'निघृणमनसः' निघृणं-निर्गतदयं मनः-चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशेष्यते-'अधमविपाक'मिति अधमः-जघन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य है तत्तथाविधमिति गाथार्थः ॥ १९ ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह
पिसुणासब्भासदभूयभूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ॥ २० ॥ व्याख्या-'पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानमित्यत्रानिष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदु'रिति वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्यं-जकारमकारादि न सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथा-अभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति, तत्राभूतोद्भावनं यथा-18 सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधानमिति, भूतानां-सत्त्वाना-8॥५८८॥ मुपघातो यस्मिन् तद्भूतोपघातं, छिन्द्धि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रर्शनार्थः, यथा| पिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं-दृढाध्यवसानलक्षणं,