________________
है दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः सँश्चासौ धर्मश्च सद्धर्म:-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः पराङ्मुखः, 'प्रमा
दपर मद्यादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तध्याने' इति तत्र जिनाः-तीर्थकरास्तेषां मतम्-आगमरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तन्निरपेक्ष इत्यर्थः, किम् ?-वर्तते आर्तध्याने इति गाथार्थः ॥१७॥ साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदनह वर्तते तदेतदभिधित्सुराह
तदविरयदेसविरया पमायपरसंजयाणुगं झाणं । सञ्चप्पमायमूलं वजेयच्वं जइजणेणं ॥ १८ ॥ व्याख्या-तद्' आर्तध्यानमिति योगः, 'अविरतदेशविरतप्रमादपरसंयतानुग'मिति तत्राविरता-मिथ्यादृष्टयः सम्यग्दृष्टयश्च देशविरताः-एकद्याद्यणुव्रतधरभेदाः श्रावकाः प्रमादपराः-प्रमादनिष्ठाश्च ते संयताश्च २ ताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानिति भावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'वर्जयितव्यं' परित्यजनीयं, केन ?-'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः ॥ १८ ॥ उक्तमार्तध्यानं, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुवन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्त चोमाखातिवाचकेन-"हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र"मित्यादि ( तत्त्वार्थे अ० ९-सू० ३६)॥ तत्राऽऽद्यभेदप्रतिपादनायाह
सत्तवहवेहबंधणढहणंकणमारणाइपणिहाणं । अइकोहग्गहघरथं निरिघणमणसोऽहमवियागं ॥ १९॥ व्याख्या-सत्त्वा-एकेन्द्रियादयः तेषां धधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः-ताडनं करकशलतादिभिः