________________
चित्तशुद्धेः क्रियाप्रवृत्तियोगाच्चेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ १२॥ अन्ये पुनरिद Siगाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये है सम्यगाशङ्काया एवानुपपत्तेरिति॥ आह-उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ?, उच्यते-बीजत्वात् , बीजत्वमेव दर्शयन्नाह
___रागो दोसो मोहो य जेण संसारहेयवो भणिया । अट्टमि य ते तिष्णिवि तो तं संसारतरुवीयं ॥ १३॥ | व्याख्या-रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्ताः परममुनिभिरिति गम्यते, 'आर्ते च' आर्तध्याने च ते 'त्रयोऽपि' रागादयःसंभवन्ति, यत एवं ततस्तत् 'संसारतरुबीजं भववृक्षकारणमित्यर्थः। आहयद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ?, उच्यते, तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तु व्याचक्षते-तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ॥ १३ ॥ इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते
कावोयनीलकालालेस्साओ णाइसंकिलिहाओ । अज्झाणोवगयस्स कम्मपरिणामजणिआओ ॥ १४ ॥ | व्याख्या-कापोतनीलकृष्णलेश्याः, किम्भूताः ?-'नातिसंक्लिष्टा' रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह-कर्मपरिणामजनिता, तत्र-'कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥ एताः