________________
SHAURIOCASTERS
एवं चउचिहं रागदोसमोहंकियस्स जीवस्स । अदृज्झाणं संसारवणं तिरियगइमूलं ॥१०॥ व्याख्या-'एतदू' अनन्तरोदितं 'चतुर्विधं चतुष्प्रकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलाञ्छितस्येत्यर्थः कस्य ?जीवस्य आत्मनः, किम् ?-आर्तध्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह-संसारवर्द्धनमोपतः, तिर्यग्गतिमूलं विशेषत इति गाथार्थः॥१०॥ आह-साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, |अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकारः
ममत्थस्स उ मुणिणो सकम्मपरिणामजणियमेयंति । वत्थुस्सभावचिंतणपरस्स समं सहतस्स ॥११॥ व्याख्या-मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत्-शू-IN लादि, यच्च प्राकर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः, उक्तं च परममुनिभिः- पुर्वि खलु भो! कडाणं कम्माणं दुच्चिण्णाणं दुप्पडिकंताणं वेइत्ता मोक्खो, नत्थि अवेदइत्ता, तवसा वा झोसइत्ते'त्यादि, एवं वस्तुस्वभावचिन्तनपरस्य 'सम्यक् शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम् ?, अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थः॥ ११॥ परिहृत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह
पूर्व खलु भोः कृतानां कर्मणां दुश्चीर्णानां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षो नास्त्यवेदयित्वा तपसा वा क्षपयित्वा.