SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ द्रीया आवश्यक-8 इष्टाया इति वर्तते, किम् ?-अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः, अनेन वर्तमानकाल- माप्रतिक्रमहारिभ- ग्रहः, तथा संयोगाभिलाषश्चेति, तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाष:-कथं ममैभिर्विषया- णाध्यान दिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति, शतकं किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह-रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्य-18 ॥५८५॥ तद्भावितमूर्तेरिति गाथार्थः॥८॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह देविंदचक्कवत्तिणाई गुणरिद्धिपत्थणमईयं । अहमं नियाणचिंतणमण्णाणाणुगयमच्चतं ॥ ९॥ __व्याख्या-दीव्यन्तीति देवाः-भवनवास्यादयस्तेषामिन्द्राः-प्रभवो देवेन्द्राः-चमरादयः तथा चक्र-प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो-भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणऋद्धयः देवेन्द्रचक्र-3 वादिगुणर्द्धयः, तत्र गुणाः-सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याज्यामयमित्यर्थः, किं तद्-'अधर्म'जघन्य 'निदानचिंतन' निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह-किमितीदमधमम् ?, उच्यते, यस्मादज्ञानानुगतमत्यन्तं, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं च-'अज्ञाना-8 न्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति च महत् मोक्षकाडैकतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः॥१॥ इति गाथार्थः ॥ ९॥ उक्तश्चतुर्थो भेदः, साम्प्रतमिदं यथाभूतस्य भवति यवर्द्धनं चेदमिति तदेतदभिधातुकाम आह- . ॥५८५॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy