________________
योगः स्यादिति भावः ?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगा|भाव इति?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोबहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य |सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्तेरिति गाथार्थः ॥ ६ ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह
तह सूलसीसरोगाइवेयणाए व(वि) जोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ॥ ७॥ . व्याख्या-तथेति धणियम्-अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूलशिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेपरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना २, वेद्यत इति वेदना तस्याः, किं ?-'वियोगप्रणिधानं' वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-'तदसम्प्रयोगचिन्ते'ति तस्याः-वेदनायाः कथश्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाधत आह-तत्प्रतिकारे-वेदनाप्रतिकारे चिकित्सायामाकुलं-व्यग्रं मनः-अन्तःकरणं यस्य स| तथाविधस्तस्य, वियोगप्रणिधानाद्यातध्यानमिति गाथार्थः ॥ ७॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह
इहाणं विसयाईण वेयणाए य रागरत्तस्स । अवियोगज्झवसाणं तह संजोगाभिलासो य ॥८॥ व्याख्या-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा 'वेदनायाश्च'