________________
आवश्यकहारिभ
द्रीया
णाध्यानशतकं
॥५८४॥
|णसाधने' इह निर्वृतिः निर्वाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः, ततश्च-'अट्टेणं तिरिक्खगई| रुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं ॥१॥ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धि-IN गत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा 'भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः(त्तः)तिर्यग्नरकभवग्रह इति गाथार्थः॥५॥ साम्प्रतं 'यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषयलक्षणभेदतश्चतुर्दा, उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारौ ॥ वेदनायाश्च ॥ विपरीतं मनोज्ञादीनां ॥ निदानं च ॥ (तत्त्वा० अ०९ सू० ३१-३२३३-३४ ) इत्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह
अमणुण्णाणं सहाइविसयवस्थूण दोसमइलस्स । धणियं विओगचिंतणमसंपोगाणुसरणं च ॥६॥ | व्याख्या-'अमनोज्ञानामिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामि-16 | त्यत आह-'शब्दादिविषयवस्तूना'मिति शब्दादयश्च ते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषां, किं ?-सम्प्राप्तानां सतां 'धणियं' अत्यर्थ 'वियोगचिन्तनं' विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वि
आतेन तिर्यग्गतिः रौद्ध्यानेन गम्यते नरकः । धर्मेण देवलोकः सिद्धिगतिः शुक्लध्यानेन ॥१॥
॥५८४ा