SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ xनान्येषाम् . अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदपरिधानश्याम इति गाथार्थः॥३॥ साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह अंतोमुहुत्तपरओ चिंता झाणंतर व होजाहि । सुचिरपि होज्ज बहुवत्थुसंकमे झाणसंताणो ॥१॥ व्याख्या-'अन्तर्मुहूर्तात् परत' इति भिन्नमुहूर्तादूर्व 'चिन्ता' प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत, तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ?-भावनानुप्रेक्षात्मक चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभावि-18 नि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण निरूपयन्नाह-सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत् बहुवस्तुसङ्क्रमे सति "ध्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि २ आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः॥४॥ इत्थं तावत् सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम् , अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह अ रुई धर्म सुकं झाणाइ तत्थ अंताई । निव्वाणसाहणाई भवकारणमहरुहाई ॥५॥ व्याख्या-आतै रौद्रं धर्म्य शुक्ल, तत्र ऋतं-दुःखं तन्निमित्तो दृढाध्यवसायः, ऋते भवमात क्लिष्टमित्यर्थः, हिंसाद्यतिक्रौर्यानुगतं रौद्र, श्रुतचरणधर्मानुगतं धये, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा लमयतीति शुक्लम् , अमूनि ध्यानानि । वर्तन्ते, अधुना फलहेतुत्वमुपदर्शयति-तत्र' ध्यानचतुष्टये 'अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः, किं ?-'निर्वा
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy